संस्कृत-शब्दकोशः

वाह्येन्द्रिय वाह्लीक

वाह्लिक

वाचस्पत्यम्

वाह्लि(ह्ली)क ||‍ पु० । वह—लिण् स्वार्थे क । १ देशभेदे भरतः । तद्देशजाते—कुङ्कुमे, २ हिङ्गुनि न० मेदि० ।


शब्दकल्पद्रुमः

वाह्लिकं || क्ली कुङ्कुमम् । हिङ्गु । इत्यमर- मेदिनीकरौ ॥


शब्दकल्पद्रुमः

वाह्लिकः || पुं, वाह्लीकदेशः । इत्यमरटीकायां भरतः ॥ (तद्देशजाते, त्रि । यथा, महाभारते । १ । २२२ । ४९ । “पृष्ठ्यानामपि चाश्वानां वाह्लिकानां जनार्द्दनः । ददौ शतसहस्राणि कन्याधनमनुत्तमम् ॥”)



Correction: