संस्कृत-शब्दकोशः

विकङ्कता विकचा

विकच

वाचस्पत्यम्

विकच ||‍ पु० विगतः कचा यस्य । १ क्षपणे बुद्धसंन्यासिनि । विशिष्टः कचो यत्र । ३ ध्वजे केतौ मेदि० । वि + कच- अच् । ३ विकशिते अमरः । ६ ब० । ४ केशशून्ये त्रि० मेदि० । ५ महाश्रावणिकायाम् स्त्री राजनि० ।


शब्दकल्पद्रुमः

विकचः || त्रि (विकचति विकशतीति । वि + कच् + अच् ।)
विकसितः । इत्यमरः ॥ (यथा, माघे । ११ । १९ । “विकचकमलगन्धैरन्धयन् भृङ्गमालाः सुरभितमकरन्दं मन्दमावाति वातः । प्रमदमदनमाद्यद्यौवनोद्यामरामा- रमणरभसखेदस्वेदविच्छेददक्षः ॥” * ॥
विगतः कचो यस्य ।)
केशशून्यः । इति मेदिनी । चे, ॥ (यथा, महाभारते । ३ । २५९ । १२ । “विभ्रच्चानियतं वेशमुन्मत्त इव पाण्डव । विकचः परुषा वाचो व्याहरन् विविधा मुनिः ॥”)


शब्दकल्पद्रुमः

विकचः || पुं, (विगतः कचो यस्य केशशून्यत्वात् । यद्वा, विशिष्टः कचो यस्य प्रभूतकेशत्वात् ।)
क्षपणः । केतुः । इति मेदिनी । चे, ॥ (यथा, बृहत्संहितायाम् । ११ । १९ । “विकचा नाम गुरुसुताः सितैकताराः शिखिपरित्यक्ताः । षष्टिः पञ्चभिरधिका स्निग्धा याम्याश्रिताः पापाः ॥”)



Correction: