वाचस्पत्यम्
विकर्म्मस्थ || पु० त्रि० विकर्मणि निन्दिताचारे तिष्ठति स्था- क । कुत्सिताचाररते विष्णुपु० ।
शब्दकल्पद्रुमः
विकर्म्मस्थः || त्रि (विकर्म्मणि विरुद्धाचारे तिष्ट- तीति । स्था + कः ।)
निषिद्धकृत् । यथा, —
“पाषण्डिनो विकर्म्मस्थान् वैडालव्रतिकान् शठान् । हेतुकान् वकवृत्तींश्च वाङ्मात्रेणापि नार्च्चयेत् ॥” इति विष्णुपुराणे ३ अंशे १८ अध्यायः ॥ (तथा मनौ । ४ । ३० ॥)