संस्कृत-शब्दकोशः

विकर्तन विकर्मस्थ

विकर्मकृत्

शब्दकल्पद्रुमः

विकर्म्मकृत् || त्रि (विकर्म्म विरुद्धं कर्म्म करो- तीति । कृ + क्विप् ।)
निषिद्धकर्म्मकारी । यथा, “न साक्षी नृपतिः कार्य्यो न कारुककुशीलवौ । न श्रोत्रियो न लिङ्गस्थो न सङ्गेभ्यो विनिर्गतः ॥ नाध्यधीनो न वक्तव्यो न दस्युर्न विकर्म्मकृत् । न वृद्धो न शिशुर्नैको नान्त्यो न विकलेन्द्रियः ॥” इति मानवे । ८ । ६६ ॥ “विकर्म्मकृत् निषिद्धकर्म्मकारी ।” इति कुल्लूक- भट्टः ॥



Correction: