संस्कृत-शब्दकोशः

विकल्प विकशित

विकल्पसम

वाचस्पत्यम्

विकल्पसम ||‍ पु० गौ० उक्ते जात्युत्तरभेदे । स च कस्य चित् धर्मस्य क्वचिद्व्यभिचारदर्शनेन धर्मत्वाविशेषात् प्रकृतहेतोः प्रकृतसाध्यं प्रति व्यभिचारापादनरूपः यथा शब्दानित्यः कृतकत्वादित्यत्र कृतकत्वस्य गुरुत्वव्यभिचार- दर्शनात् गुरुत्वस्यानित्यत्वव्यभिचारदर्शनात् अनित्यत्वस्य- मूर्त्तत्वव्यभिचारदर्शनात् धर्मत्वाविशेषात् कृतकत्वमप्य- नित्यत्वं व्यभिचरेदिति” वृत्तिः । वा० भाष्ये तु “साधन- धर्मयुक्ते दृष्टान्ते धर्मान्तरविकल्पात् साध्यधर्मविकल्पं प्रसजतो विकल्पसमः । यथा क्रियाहेतुगुणयुक्तं कि- ञ्चिद् गुरु यथा लोष्टः किञ्चिद् लघु यथा वायुः । एवं कियाहेतुगुणयुक्तं किञ्चित् क्रियावत् स्यात् यथा लोष्टः । किञ्चिदक्रियं यथात्मा । विशेषो वा वाच्यः” इत्युक्तम् ।



Correction: