संस्कृत-शब्दकोशः

विकश्वर विकस

विकषा

वाचस्पत्यम्

विकषा(सा) ||‍ स्त्री विशेषेण कष्यस्यतेऽसौ कष(सा) घञर्थ क । १ मञ्जिष्ठायाम् अमरः । २ मांसरोहिण्यां राजनि० ।


शब्दकल्पद्रुमः

विकषा || स्त्री (विकषतीति । वि + कष गतौ + अच् । टाप् ।)
मञ्जिष्ठा । इत्यमरटीकायां रायमुकुटः ॥ मांसरोहिणी । इति राज- निर्घण्टः ॥



Correction: