संस्कृत-शब्दकोशः

विकार्य विकालक

विकाल

वाचस्पत्यम्

विकाल ||‍ पु० विरुद्धः दैवर्पत्रादिकर्मानर्हः कालः । १ राक्षसी नामकवेलायाम् २ दिवसान्त्यकाले त्रिका० ।


शब्दकल्पद्रुमः

विकालः || पुं, (विरुद्धः कार्य्यानर्हः कालः ।)
दैवपैत्रादिकर्म्मणि विरुद्धकालः । वैकाल इति भाषा । तत्पर्य्यायः । सायः २ दिनान्तः ३ सायाह्नः ४ सायम् ५ । इति शब्दरत्नावली ॥ उत्सवः ६ विकालकः ७ । इति त्रिकाण्डशेषः ॥ (यथा, मार्कण्डेये । ३५ । ३० । “न लङ्घयेत् तथैवासृक् ष्ठीवनोद्वर्त्तनानि च । नोद्यानादौ विकालेषु प्राज्ञस्तिष्ठेत्कदाचन ॥”)



Correction: