वाचस्पत्यम्
विकिर || पुंस्त्री० वि + कॄ—क । १ विहगे अमरः स्त्रियां ङीष् । २ वृक्षे त्रिका० । विकीर्य्यते घञर्थे क । ३ विघ्नोपशान्तये उत्क्षिप्तश्वेतसर्षपादौ “लाजचन्दनसिद्धार्थभस्मदूर्वाकु- शाक्षताः । विकिरा इति सन्दिष्टा सर्वविघ्नौथनाशनाः” तन्त्रसा० । ४ अग्निदग्धादीनां पित्तनिर्वपने “असंकृत- प्रमीतानां योगिनां कुलयोपिताम् । उच्छिष्टं भागधेयं स्यात् दर्मेषु विकिरश्च यः” श्रा० त० । “पिण्डनिर्वापरहितं यत्तु श्राद्धं विधीयते । स्वधावाच- नलोपोऽत्र विकिरस्तु न लुप्यते” आ० त० ।
शब्दकल्पद्रुमः
विकिरः || पुं, (विकिरति मृत्तिकादीन् भोजनार्थ- मिति । वि + कॄश विक्षेपे + इगुपधेति कः ।)
पक्षी । इत्यमरः ॥ (अस्य पर्य्यायो यथा, —
“पक्षी खगो विहङ्गश्च विहगश्च विहङ्गमः । शकुनिर्विः पतत्त्री च विष्किरो विकिरो- ऽण्डजः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥)
कूपः । इति त्रिकाण्डशेषः ॥ (विकीर्य्यते इति । वि + कॄ + घञर्थे कः ।)
पूजाकालीनविघ्नोत्- सारणार्थक्षेपणीयतण्डुलादिः । यथा । फडिति सप्त जप्तान् विकिरानादाय । “अपसर्पन्तु ते भूता ये भूता भुवि संस्थिताः । ये भूता विघ्नकर्त्तारस्ते नश्यन्तु शिवाज्ञया ॥” इति विकिरेत् ॥ यथा, —
“लाजचन्दनसिद्धार्थभस्मदूर्व्वाकूशाक्षताः । विकिरा इति सन्दिष्टाः सर्व्वविघ्नौघनाशकाः ॥” इति तन्त्रसारः ॥ अग्निदग्धादीनां पिण्डम् । यथा, मनुः । ३ । २४५ । “असंस्कृतप्रमीतानां योगिनां कुलयोषिताम् । उच्छिष्टं भागधेयं स्याद्दर्भेषु विकिरश्च यः ॥” अपि च । “पिण्डनिर्व्वापरहितं यत्तु श्राद्धं विधीयते । स्वधावाचनलोपोऽत्र विकिरस्तु न लुप्यते ॥” इति श्राद्धतत्त्वम् ॥ (यथा च मार्कण्डेये । ३१ । १२ । “ये वा दग्धाः कुले बालाः क्रियायोग्या ह्यसंस्कृताः । विपन्नास्तेऽन्नविकिरसम्मार्ज्जनजलाशिनः ॥” * ॥
जलविशेषे, क्ली । तथा च चिन्तामणिधृतवच- नम् । “नद्यादिनिकटे भूमिर्या भवेद्बालुकामयी । उद्भाव्यते ततो यत्तु तज्जलं विकिरं विदुः ॥ विकिरं शीतलं स्वच्छं निर्द्दोषं लघु च स्मृतम् । तुवरं स्वादु पित्तघ्नं मनाक् कफकरं स्मृतम् ॥”)