वाचस्पत्यम्
विकृत || त्रि० वि + कृ—क्त । १ वीमत्से २ मलिनीकृते, ३ रोगयुक्ते ४ विकारयुते । “ह्रोमानेर्व्यादिमिर्यत्र वोच्यते स्वं विवक्षितम । व्यज्यते चेष्टयैवेदं विकृतं तद्विदुर्नुधाः” उज्वलमण्युक्ते ५ भाव- भेदे न० प्रभवादिषु ६ चतुर्विंशवर्षे पु० प्रभवादिशब्दे ४४७४ पृ० तदानयनं दृश्यम् । “सर्वाः प्रजाः प्रपीड्यन्ते व्याधिः शोकश्च जायते । शिरोवक्षोऽक्षिरोगास पा- पाद्धि विकृते जनाः” ज्यो० त० । नुरुवर्षशब्दे २६२२ पृ० दृश्यम् ।
शब्दकल्पद्रुमः
विकृतं || क्ली विकारः । तस्य लक्षणम् । यथा, —
“ह्रीमानेर्षादिभिर्यत्र नोच्यते स्वं विवक्षितम् । व्यज्यते चेष्टयैवेदं विकृतं तद्विदुर्बुधाः ॥” इत्युज्ज्वलनीलमणिः ॥ प्रभवादिषष्टिसंवत्सरान्तर्गतचतुर्व्विंशवर्षम् । यथा, भविष्यपुराणे । भैरव उवाच । “सर्व्वाः प्रजाः प्रपीड्यन्ते व्याधिः शोकश्च जायते । शिरोवक्षोऽक्षिरोगाश्च पापाद्धि विकृते जनाः ॥” इति ज्योतिस्तत्त्वम् ॥ (नायिकालङ्कारविशेषः । यथा, साहित्य- दर्पणे । ३ । १४६ । “वक्तव्यकालेऽप्यवचो व्रीडया विकृतं मतम् ॥”)
शब्दकल्पद्रुमः
विकृतं || त्रि (वि + कृ + क्तः ।)
वीभत्सम् । रोगि- तम् । असंस्कृतम् । इति मेदिनी । ते, १५८ ॥ (अङ्गविहीनम् । यथा, मनुः । ९ । २४७ । “बालाश्च न प्रमीयन्ते विकृतं न च जायते ॥” अप्रकृतिस्थः । यथा, महाभारते । ३ । १११ । १८ । “अथर्य्यशृङ्गं विकृतं समीक्ष्य पुनः पुनः पीड्य च कायमस्य । अवेक्ष्यमाणा शनकैर्जगाम कृत्वाग्निहोत्रस्य तदापदेशम् ॥” * ॥
मायावी । यथा, रघुः । १२ । ३९ । “लक्ष्मणः प्रथमं श्रुत्वा कोकिलामञ्जुवादिनीम् । शिवाघोरस्वनां पश्चात् बुबुधे विकृतेति ताम् ॥”)