संस्कृत-शब्दकोशः

विकृष्टकाल विकोक

विकेशी

वाचस्पत्यम्

विकेशी ||‍ स्त्री विगतः केशो यस्याः ङीष् । १ केशशून्यायां स्त्रिया २ पटवर्त्तौ च धरणिः । ३ महीरूपस्य शिवस्य पत्न्याम् “सूर्य्यो जलं मही वह्निर्वायुराकाशनेव च । दीक्षितो ब्राह्मणः सोमः इत्येतास्तनकः क्रमात् । सुवर्चला तथै- वोषा विकेशी चापरा शिवा । स्वाहा दिशस्तथा दीक्षा रोहिणी च यथाक्रमम् । स्वर्व्यादीनामिमाः पत्न्यो रुद्राद्यंर्नामभिः सह” मार्क० पु० ।


शब्दकल्पद्रुमः

विकेशी || स्त्री (विगतः केशो यस्याः । ङीष् ।)
केशवर्ज्जिता । पटवर्त्तिः । इति धरणिः ॥ महीरूपशिवस्य पत्नी । यथा, —
“सूर्य्यो जलं मही वह्निर्वायुराकाशमेव च । दीक्षितो ब्राह्मणः सोम इत्येतास्तनवः क्रमात् ॥ सुवर्च्चला तथैवोषा विकेशी चापरा शिवा । स्वाहा दिशस्तथा दीक्षा रोहिणी च यथा- क्रमम् । सूर्य्यादीनामिमाः पत्न्यो रुद्राद्यैर्नामभिः सह ॥” इति मार्कण्डेयपुराणे रुद्रसर्गः ॥



Correction: