वाचस्पत्यम्
विकोक || पु० वृकासुरपुत्रभेदे कल्किन० २१ अध्यावे दृश्यम् ।
शब्दकल्पद्रुमः
विकोकः || पुं, वृकासुरपुत्त्रः । स च कल्किदेवेन हतः । यथा, —
“कल्किः कोकविकोकाभ्यां गदापाणिर्युधां पतिः । युयुधे विशने विष्णुर्लोकानां जनयन् भयम् ॥ वृकासुरस्य पुत्त्रौ तौ नप्तारौ शकुनेर्हरिः । तयोः कल्किः संयुयुधे मधुकैटभयोर्यथा ॥ तयोर्गदाप्रहारेण चूर्णिताङ्गस्य भूपतेः । कराच्च्युतोऽपतद्भूमौ दृष्ट्वोचुरित्यहो जनाः ॥ ततः पुनः क्रुधा विष्णुर्ज्जगज्जिष्णुर्म्महाभुजः । नन्दकेन शिरस्तस्य विकोकस्याच्छिनत् प्रभुः ॥” इति कल्किपुराणे २१ अध्यायः ॥