वाचस्पत्यम्
विक्रम || पु० विशेषेण क्रासति वि + क्रम—अच् । १ त्रि- विक्रमे, २ विष्णौ, “मेधावी विक्रमः क्रमः” विष्णुस० । ३ विक्रमादित्यनृपे “रत्नानि वै वररुचिर्नव विक्रमस्य” ज्योतिर्विदाभरणम् । भावे घञ् । ४ क्रमणे मेदि० । करणे घञ् । ५ चरणे, त्रिविक्रमः । ६ शौर्य्यातिशये, ७ मामर्थ्ये च राजनि० । षष्टिवर्षमध्ये “लवणम् मधु गन्धश्च महार्घं विक्रमे प्रिये!” इत्युक्तलक्षणे ८ वत्सर- भेदे मेदि० । प्रभवादिशब्दे ४४७४ पृ० दृश्यम् ।
शब्दकल्पद्रुमः
विक्रमः || पुं, (विशेषेण क्रामतीति । वि + क्रम + अच् ।)
विष्णुः । यथा, विष्णुसहस्रनामस्तोत्रे । “ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः ॥” (वि + क्रम + घञ् ।)
शौर्य्यातिशयः । तत्- पर्य्यायः । अतिशक्तिता २ । इत्यमरभरतौ ॥ (यथा, रघुः । १२ । ८७ । “अन्योन्यदर्शनप्राप्तविक्रमावसरं चिरात् । रामरावणयोर्युद्धं चरितार्थमिवाभवत् ॥”)
क्रान्तिमात्रम् । इति मेदिनी । मे, ५४ ॥ (पाद- विक्षेपः । यथा, रामायणे । १ । १ । १० । “आजानुबाहुः सुशिराः सुललाटः सुवि- क्रमः ॥”)
विक्रमादित्यराजा । यथा, —
“धन्वन्तरिक्षपणकामरसिंहशङ्कु- वेतालभट्टघटकर्परकालिदासाः । ख्यातो वराहमिहिरो नृपतेः सभायां रत्नानि वै वररुचिर्नव विक्रमस्य ॥” इति नवरत्नश्लोकः ॥ चरणः । शक्तिः । इति राजनिर्घण्टः ॥ (स्थितिः । यथा, भागवते । २ । ८ । २० । “संप्लवः सर्व्वभूतानां विक्रमः प्रतिसंक्रमः । इष्टापूर्त्तस्य काम्यानां त्रिवर्गस्य च यो विधिः ॥” “विक्रमः स्थितिः प्रतिसंक्रमो महाप्रलयः ।” इति तट्टीकायां श्रीधरस्वामी ॥ * ॥
)
प्रभवादि- षष्टिसंवत्सरान्तर्गतचतुर्द्दशंवर्षम् । यथा “जायन्ते सर्व्वशस्यानि मेदिनी निरुपद्रवा । लवणं मधु गव्यञ्च महार्घ्यं विक्रमे प्रिये ॥” इति ज्योतिस्तत्त्वम् ॥ (स्वनामख्यातकविविशेषः । स च नेमिदूताख्य- खण्डकाव्यं विरचितवान् । तथा च नेमिदूते उक्तम् । “तद्दःखाथ प्रचरकवितुः कालिदांसस्य काव्या- दन्त्यं पादं सुपदरचितान् मेघदूताद्गृहीत्वा । श्रीमन्नमेश्चरितविशदं साङ्गणस्याङ्गजन्मा चक्रे काव्यं बुधजनमनःप्रीतये विक्रमाख्यः ॥” वत्सप्रीपुत्त्रः । यथा, मार्कण्डेये । ११७ । १ । “तस्य तस्यां सुनन्दायां पुत्त्रा द्बादश जज्ञिरे । प्रांशुः प्रवीरः शूरश्च सुचक्रो विक्रमः क्रमः ॥”)