शब्दकल्पद्रुमः
विक्रान्तिः || स्त्री (वि + क्रम् + क्तिन् ।)
अश्व- गतिः । तत्पर्य्यायः । पुलायितम् २ । इति त्रिकाण्डशेषः ॥ विक्रमश्च ॥ (यथा, राजतर- ङ्गिण्याम् । ४ । १२९ । “पार्थिवः पृथुविक्रान्तिर्युधि क्रोधं मुमोच यः ॥” पादन्यासः । यथा, शतपथब्राह्मणे । १ । १ । २ । १३ । “विष्णुस्त्वाक्रमतामिति यज्ञो वै विष्णुः स देवेभ्य इमां विक्रान्तिं विचक्रमे यैषामिमं विक्रान्ति- रिदमेव प्रथमेन पदेन पस्पाराथेदमन्तरिक्षं द्वितीयेन दिवमुत्तमेनैतां वेवैष एतस्मै विष्णु- र्यज्ञो विक्रान्तिं विक्रमते ॥”)