वाचस्पत्यम्
विक्रीयामम्प्रदान || न० विक्रीय न सम्प्रदानं क्रेत्रे यत्र । अष्टादशविवादान्तर्गते विवादविशेषे तत्स्वरूपादिकं वीरमि० उक्तं यथा “अथ विक्रीयासम्प्रदानाख्यव्यवहारपदम् । तत्स्वरूप- माह नारदः “विक्रीय पण्यं मूल्येन क्रेतुर्यन्न प्रदीयते । विक्रीयासम्प्रदानं तद्विवादपदमुच्यते इति” तत्र विक्रेयद्रव्यस्य द्वैविध्यषड्विधत्वे क्रमेणाह स एव “लोकेऽस्मिन् द्विविधम्पण्यं जङ्गमं स्थावरं तथा । षड्- विधस्तस्य च बुधैर्दानादानविधिः स्पृतः । गणितन्तुलिमं मेयं क्रियया रूपतः श्रियेति” । दानं विक्रयः आ- दानं क्रयः । गणयित्वा यस्य क्रयः तद्गणितम् । गणितं संख्येयं क्रमुकफलादिकम् एवं तुलिमादिकं तुलिमन्तुलाधृतं हेमचन्दनादिकम् । मेयं व्रीह्यादि- कम् क्रियया वाहनदोहनादिरूपया युक्तमिति शेषः । रूपतः रूपेण युक्तं वस्तु पण्याङ्गनादि । श्रिया दीप्त्या युक्तं पद्मरागादिकम् । यदा विक्रेता मूल्यं गृहीत्वा याचमानाय क्रेत्रे विक्रीतं वस्तु न ददाति तदा यतक- र्त्तव्यं तदाह स एव “विक्रीय पण्यं मल्येन क्रेतुर्यो न प्रयच्छति । स्थावरस्य क्षयं दाप्यो जङ्गमस्य क्रियाफल- मिति” यो गृहीतमूल्योविक्रेता अजातानुशयाय क्रेत्रे प्रार्थयमानाय नार्पयति तच्च पण्यं यदि स्याव- रात्मकं तदा क्षयेण सहितमसौ दाप्यः । यदा तु जङ्ग- मात्मकं तदा क्रियाफलेन सहितम् इत्यर्थः । विक्रया- नन्तरं जात उपभोगोऽत्र क्षयः क्रियाफलं दोह- नादिक्रियाकलं क्षीरादिकम् । इदञ्च क्रयकालापे- क्षया अर्पणकाले मूल्याधिक्ये वेदितव्यम् । मूल्यह्रासे त्वन्यथाभिधानात् । तथा च स एव “अर्थश्चेदपही- येत सोदयम्पण्यमावहेदिति” । अर्वाक् चेदपचीयेतेति वल्पतरौ पाठः । अर्वाक् विक्रीतस्य क्रेत्रे समर्पणात् पूर्वं अपचीयेत हीनमूल्यं भवेत्सोदयम्पण्यमावहेत् । विक्रयकाले यावन्मूल्यं गृहीतं तावता मूल्येनार्पण- समये मूल्यह्रासवशाद्यावदुपचयसहितं लभ्यते ताव- द्दद्यादित्यर्थः । यदा तु मूल्यसाम्यं तदा पण्योपचय रूपस्यासम्भवात् “निक्षेपं वृद्धिशेषञ्च क्रयं विक्रयमेव च । याच्यमानमदत्तञ्चेद्वर्द्धते पञ्चकं शतमिति” वच- नोक्त वृद्धिसहितम्पण्यं दाप्यः । अतएव याज्ञ- वल्क्यः “गृहीत मूल्यं यः पण्यं क्रेतुर्नैव प्रय- च्छति । सोदयं तस्य दाप्योऽसौ दिग्लाभं वा दिना- गते” इति । गृहीतमूल्यम्पण्यं विक्रेता यदि प्रा- र्थयमानाय स्वदेशवणिजे क्रेत्रे न समर्पयति तच्च पण्यं यदि क्रयकाले बहुमूल्यं सत्कालान्तरे अल्पमू- ल्येनैव लभ्यते तदा सोदयं वृद्ध्या सहितं विक्रेता क्रेत्रे दापनीयः । यदा मूल्यह्रासकृतः पण्यस्वोदयो नास्ति किन्तु क्रयकाले यावता मूल्येन लभ्यं यावत्पण्य- मिति प्रतिपन्नं तावदेव तदा तत्पण्यमादाय त- स्मिन् देशे विक्रीतस्य यो लाभस्तेगोदयेन सहितं दापनीयः वचनत्रयस्यार्थः । चतुर्थस्य तु यो देशा- न्तरात् क्रयणार्थमागत्य क्रीणाति तस्मै देशान्तरे तत्पण्य विक्रये यो लाभस्तेन सहितं तत्पण्यं दापनीय इ- त्यर्थः । देशान्तरलाभसहितपण्यदानन्न केवलमाद्यंश- साम्य एव किन्तु मूल्यस्य वृद्धौ क्षयेऽपोत्याह नारदः “स्थायिनामेष नियमोदिग्लामं दिग्विचारिणामिति” । स्थायिनां विक्रेतृदेशख्यायिनाम् एष नियमः ख्यावरस्य क्षयं दाप्य इत्यादिवचनोक्तो नियम इत्यर्थः । विष्णुर्वि- क्रेतुर्दण्डमप्याह “गृहीतमूल्यं यः पण्यं क्रतुर्नैव दद्यात्तत्तस्य सोदयं दाप्यो राज्ञा च पणशतं दण्ड्यः” इति । एतच्चानुशयरहिततृप्तविक्रेतृविषयमिति म- दनरत्ने । यस्तु विक्रीयानुशयवशान्नार्पयति यश्च क्रीत्वाऽनुशयवशान्न गृह्णाति तौ प्रत्याह कात्यायनः “क्रीत्वा प्राप्तान्न गृह्णीयाद्यो न दद्याददूषितम् । स मूल्याद्दशभानन्तु दत्त्वा स्वन्द्रव्यमाप्नुयात्” । अप्राप्तेऽथ क्रियाकाले कृते नैव प्रदापयेत् । एष धर्मो दशाहात्तु परतोऽनुशयो नत्विति” । अदूषितं जलादिनेति शेषः । दोह्यवाह्यादिपण्यस्य दोहनवाहनादिरूपः कालोऽल्प- क्रियाकालस्तस्मिन्नाप्ते सति अग्रहणेऽदाने वा कृते सति न दशमभानं प्रदापयेत् किन्तु तमदत्त्वैव स्वीयं द्रव्यं प्राप्नुयादिति । एष धर्मो दशाहात्प्राग्वे दितव्यः तत ऊर्द्ध्वमनुशयो न कर्त्तव्यः । विक्रीयासम्प्र- यच्छती यद्विक्रीतं पण्यं विक्रेतुः पाश्वं स्थितं तस्य यदि- नाशः स्यात्तदा विक्रेतुरेव हानिरित्याह याज्ञवल्क्यः “राजदैवोपघातेन पण्ये दोषमुपागते । हानिर्वि- क्रेतुरेवासौ याचितस्याप्रयच्छतः” इति । अत्र याचित- स्येति विशेषणोपादानान् याचनाभावे न विक्रेतुर्हानि- रित्यर्थाद्गम्यते । नारदोऽपि “उपहग्येत वा पण्यं दह्येतापह्रियेत वा । विक्रेतुरेव सोऽनर्थो विक्रीयासम्प्र- यच्छतः” इति । यथा याचितस्वाप्रयच्छतो विक्रोगृहानि- स्तथा दीयमानं पण्यमगृह्णतः क्नेतुरपीत्याह ल एव “दीयमानन्न गृह्णाति क्रीतम्पण्यञ्च यः क्रयो । स एवास्य भवेद्दोषी विक्रेतुर्योऽप्रयच्छतः” इति । अप्रय- च्छतः विक्रेतुर्या दाषः स एवास्य भवेदित्यन्ययः । क्रेतु- र्दोषाभिधानस्य फल पण्यस्य मूल्यं क्रेत्रे विक्रेत्रा न प्रत्यर्पणीयमिति । दीयमानन्न नृह्णातीति वदता दीय- वातग्रहणे न मूल्यहानिरिति दर्शितम् । क्रयान- न्तरं क्रेत्रा न याचितं विक्रेत्रा च न समर्पितं जात- श्चौराद्युपद्रवस्तत्र द्वयोः समा हानिः । क्रेतृविक्रेत्रो- रुभयोरपि याचनानर्पणशैथिल्येन लापराधत्वादित्युक्तं देवलभट्टैः स्मृतिचन्द्रिकायाम् । याज्ञवल्क्योऽपि सानिश्चेत् क्रेतृदोषेण क्रेतुरेव हि सा भवेदिति” क्रेतृदोषः दायमानस्याग्रहणम् । यत्र पुनर्जातानुशयः क्रेता विक्रेत्रा दीयमानञ्च गृह्णाति तत्राप्याह ना- रदः “दीयमानन्न गृह्णाति क्रीत्वा पण्यं च यः क्रयी । विक्रीणानस्तदन्यत्र विक्रेता नापराध्नुयादिति” । क्रयी जातानुशय इति शेषः । याज्ञवल्क्योऽपि “विक्रीत- मपि विक्रेयं पूर्वक्रेतर्य्यगृह्णतीति” । यस्त्वदुष्टं पण्यं दर्शयित्वा सदोषं विक्रीणीते यश्चान्यहस्ते विक्रीतं तत्क्रेत्रनुशयाभाव एवान्यत्र विक्रीणीते तयोः समानो- दण्ड इत्याह नारदः “निर्दोषं दर्शयित्वा तु सदोषं यः प्रयच्छति । स मूल्याद्द्विगुणं दाप्यो विनयं ताव- देव तु । तथान्यहस्ते विक्रीय योऽग्यस्मै तत्प्रयच्छति । द्रव्यन्तद्द्विगुणं दाप्यो विनयं तावदेव त्विति” । याज्ञ- वल्क्योऽपि “अन्थहस्ते च विक्रीतं दुष्टं वाऽदुष्ट वद्यदि । विक्रीणीते दमस्तस्य मूल्यात्तु द्विगुणो भवे- दिति” बुद्धिपूर्वविषयमेतत् । “ज्ञात्वा सदोषं यः पण्यं विक्रीणीते विचक्षणः । तदैव द्विगुणं दाप्यस्तत्समं विनयं तथेति” वृहस्पतिनोक्तत्वात् । अबुद्धिपूर्वक विक्रये तु क्रयपरावर्त्तनमेव । अन्यत्रापि विषयविशेषे परावर्त्तनमाह वृहस्पतिः “मत्तोन्मत्तेन विक्रीतं ही- नमुल्यं भयेन वा । अस्वतन्त्रेण मूढेन त्याज्यन्तस्य पुन- र्भवेदिति” । एतत्सर्वं दत्तमूल्ये पण्ये द्रष्टव्यम् । अत- एव नारदः । “दत्तमूल्यस्य पण्यस्य विधिरेष प्रकी- र्त्तितः” इति । यत्र पुनर्मूल्यं न दत्तं तत्रापि स एवाह “अदत्तेऽन्यत्र समयान्न विक्रेतुरविक्रयः” इति । अदत्तमूल्ये तु पण्ये वाङ्मात्रेण क्रये कृते न परावर्त्त- नीयमित्येवमादिसमयाभावे सति प्रवृत्तौ निवृत्तौ न क- णिद्दोष इत्यर्थः । यत्र पुनर्वाङ्मात्रक्रयपरिहारार्थं वि- क्रेतुर्हस्ते क्रेत्रा किञ्चिद्द्रव्यं दत्तं तत्र क्रेतृदोष वशेन क्रयासिद्दौ त्वाह व्यासः “सत्यङ्गारं च यो दत्त्वा यथाकालं न दृश्यते । पण्यं भवेन्निसृष्टन्तद्दोय- मानमगृह्णतः” इति । निसृष्टं भवेत् उत्सृष्टं भवेदि- त्यर्थः । अत्र पण्यद्रव्यस्योत्सर्गः सत्यङ्कारद्रव्योत्सर्गे- ऽभिमतः । अन्यथा वाङ्मात्रक्रयकर्तृतुल्यत्वेन विक्रेतुः सत्यङ्कारद्रव्यग्राहकत्वकृतमन्यत्र विक्रयणाद्यपराधनिमि- त्तकं सत्यङ्क रद्रव्यस्य द्वैगुण्येन प्रतिदानं न स्यात् । अत्रापि विक्रीतमविक्रेयनित्यनुसन्धेयम् । अस्मिञ्चेव विषये विक्रेतृदोषवशेन क्रयासिद्धौ त्वाह याज्ञबलक्यः “सत्यङ्कारकृतं द्रव्यं द्विगुणं प्रतिदापयेदिति” सत्यङ्कारः सत्यापनं कृतस्य क्रयस्य सत्यताकरणमिति यावत् । “क्लीवे सत्यापनं सत्यङ्कारः सत्याकृतिः स्त्रियाम्” इत्यमर कोषःभिधानात् । सत्यङ्क राय कृतं समार्पतं सत्यङ्कार- कृतं व्रयं रत्यं कर्त्तुं यद्विक्रेतृहस्ते कृतमित्यर्थः” ।