संस्कृत-शब्दकोशः

विक्षत विक्षिप्त

विक्षाव

वाचस्पत्यम्

विक्षाव ||‍ पु० वि + क्षु घञ् । १ शब्दे अमरः । २ कासादिरोगकृतशब्दे च वैद्यकम् ।


शब्दकल्पद्रुमः

विक्षावः || पुं, (विक्षवणमिति । वि + क्षु + “वौ क्षुश्रुवः ।” ३ । ३ । २५ । इति घञ् ।)
शब्दः । इत्यमरः ॥ (यथा, भट्टिः । ७ । ३६ । “यात यूयं यमश्रायं दिशं नायेन दक्षिणाम् । विक्षावैस्तोयविश्रावं तर्ज्जयन्तो महोदधेः ॥”)
कासः । इति स्वामिकलिङ्गौ । इति भरतः ॥



Correction: