वाचस्पत्यम्
विक्षिप्त || त्रि० वि + क्षिप—क्त । १ विशेषेण क्षिप्ते २ योगशास्त्रोक्ते चित्तस्य भूमिभेदे न० । यथोक्तं पातञ्जलभाष्यविव- रणयोः “क्षिप्तं मूढं विक्षिप्तमेकाग्रं निरुद्धमिति चित्तभूमयः । तत्र विक्षिप्ते चेतसि विक्षेपोपसर्जनी भूतः समाधिर्न योगपक्षे वर्त्तते” भा० । “क्षिप्तं सदैव रजसा तेषु तेषु विषयेषु क्षिप्यमाणम् अत्यन्तमस्थिरं, मूढन्तु तमःसमुद्रेकान्निद्रावृत्तिमत् । विक्षिप्तं क्षिप्ता- द्विशिष्टं विक्षिप्तं विशेषोऽत्र स्थेसबहुलस्य कादाचित्कः स्थेमा सा चास्याःस्थेमबहुलता सांसिद्धिकी वा वक्ष्य- माणव्याधिस्त्यानाद्यन्तरायजनिता वा” विव० ।
शब्दकल्पद्रुमः
विक्षिप्तः || त्रि (वि + क्षिप् + क्तः ।)
त्यक्तः । (यथा, महाभारते । १ । २७ । ७ । “वायुविक्षिप्तकुमुमैस्तथान्यैरपि पादपैः ॥” कम्पितः । यथा, भागवते । ८ । ८ । ४६ । “स व्रीडस्मितविक्षिप्तभ्रूविलासावलोकनैः । दैत्यय्थुपचेतःसु काममुद्दीपयन् मुहुः ॥” क्ली चित्तवृत्तिविशेषः । यथा, पातञ्जलभाष्ये । १ । “क्षिप्तं मूडं विक्षिप्तमेकाग्रनिरुद्धमितिचित्त भूमयः ॥” “क्षिप्ताद्विशिष्टं विक्षिप्तमितिमणि- प्रभा ॥”)