शब्दकल्पद्रुमः
विखनाः || [स्] पुं, ब्रह्मा । यथा, — “न खलु गोपिकानन्दनो भवा- नखिलदेहिनामन्तरात्मदृक् । विखनसार्थितो विश्वगुप्तये सख उदेयिवान् सात्त्वतां कुले ॥” इति श्रीभागवते । १० । ३१ । ४ ॥