वाचस्पत्यम्
विगन्धक || पु० विरुद्धः गन्धोऽस्य कप् । १ इङ्गुदीरुवृक्षे राजनि० । २ हपुषायां स्त्री० टापि अत इत्त्वम् ।
शब्दकल्पद्रुमः
विगन्धकः || पुं, (विरुद्धो गन्धो यस्मिन् । बहुव्रीहि- लक्षणः कः ।) इङ्गुदीवृक्षः । इति राजनिर्घण्टः ॥