वाचस्पत्यम्
विगम || पु० वि + गम—घञ् । १ नाशे, २ अपाये च ।
शब्दकल्पद्रुमः
विगमः || पुं, (वि + गम + “ग्रहवृदृनिश्चिगमश्च ।” ३ । ३ । ५८ । इति अप् ।)
नाशः । यथा । एकदण्डिनो वेदान्तिनस्तु यदुपाध्यनवच्छिन्नस्य ब्रह्मणो विशुद्धरूपता तादृशोपाधिविगम एव कैवल्यम् । त्रिदण्डिनस्तु आनन्दमयपरमात्मनि जीवात्मनो लयो मोक्षः । जीवात्मपरमात्मनो- रभेदेऽपि उपाधिविशेषविशिष्टस्यात्मनो जीव- रूपतया तस्यौपाधिकः परमात्मभेदः । इति भेदकोपाधिविगम एव जीवस्य परमात्मनि लयः । यथा घटाकाशस्य घटविगम एव शुद्ध आकाशे तस्य लयः । लिङ्गशरीरावच्छिन्नस्यै- वात्मनो जीवभाव इति लिङ्गशरीरनाश एव पर्य्यवसितो मोक्षः । इति मुक्तिवादः ॥ (विच्छदः । यथा, भागवते । १ । १३ । ४३ । “यथा क्रीडोपस्कराणां संयोगविगमाविह । इच्छया क्रीडितुः स्यातां तथैवेशेच्छया नॄणाम् ॥”)