शब्दकल्पद्रुमः
विगर्हणा || स्त्री (वि + गर्ह + णिच् + युच् । टाप् ।) निन्दनम् । भर्त्सनम् । (यथा, महा- भारते । १२ । ११४ । २१ । “विगर्हणां परमदुरात्मना कृतां सहेत यः संसदि दुर्ज्जनान्नरः ॥”)