वाचस्पत्यम्
विग्र || त्रि० विगता नासिकाऽस्य ग्रादेशः । विगतनासिके अमरः
शब्दकल्पद्रुमः
विग्रः || त्रि (विगता नासिकास्य । “वेर्ग्रो वक्तव्यः ।” ८ । ४ । २८ । इत्यस्य वार्त्तिकोक्त्या नासिकायाः ग्रः ।)
गतनासिकः । इत्यमरः ॥ * ॥
(त्रि, “विविधं गृह्णात्यर्थानिति विपूर्व्वात् गृह्णातेः ‘अन्येष्वपि दृश्यते ।’ इति डः ।” इति देव- राजयज्वा । मेधावी । इति निघण्टुः । ३ । १५ ॥ यथा, ऋग्वेदे । १ । ४ । ४ । “परेहि विग्रमस्तृतमिन्द्रं पृच्छाविपश्चितम् ॥”)