संस्कृत-शब्दकोशः

विग्र विग्रहावर

विग्रह

वाचस्पत्यम्

विग्रह ||‍ पु० वि + ग्रह—अच् । १ देहे, २ विस्तारे, ३ युद्धे पुंन० अमरः । ४ समासादिवृत्तिसमानानार्थकवाक्यभेदे, ५ विशेष- ज्ञाने च “अविग्रहा गतादिस्था यथा ग्रामादिकर्मभिः” हरि० ।


शब्दकल्पद्रुमः

विग्रहः || पुं, (विविधं सुखदुःखादिकं गृह्णातीति । वि + ग्रह + अच् । यद्वा, विविधैर्दुःखादिभि- र्गृह्यते इति । वि + ग्रह + “ग्रहवृदृनिश्चि- गमश्च ।” ३ । ३ । ५८ । इति अप् ।)
शरीरम् । (यथा, रघुः । ११ । १३ । “विग्रहेण मदनस्य चारुणा सोऽभवत् प्रतिनिधिर्न कर्म्मणा ॥”)
युद्धम् । इत्यमरः ॥ (यथा, मनुः । ७ । १६० । “सन्धिञ्च विग्रहञ्चैव यानमासनमेव च । द्वैधीभावं संश्रयञ्च षड्गुणांश्चिन्तयेत् सदा ॥” विरोधमात्रम् । यथा, रघुः । ९ । ४७ । “त्यजत मानमलं वत विग्रहै- र्न पुनरेति गतं चतुरं वयः । परभृताभिरितीव निवेदिते स्मरमते रमते स्म बधूजनः ॥”)
विभागः । इति मेदिनी । हे, २३ ॥ (यथा, भागवते । ३ । ३१ । ३ । “मासेन तु शिरो द्वाभ्यां बाह्वङ्घ्र्याद्यङ्ग- विग्रहः । नखलोमास्थिमर्म्माणि लिङ्गच्छिद्रोद्भव- स्त्रिभिः ॥”)
वाक्यभेदः । स तु समासवाक्यम् । तत्पर्य्यायः । विस्तरः २ । इत्यमरः ॥ (वीनां पक्षिणां ग्रहो ग्रहणमिति वाक्ये विहङ्गग्रहणम् । यथा, वक्रोक्तिपञ्चाशिकायाम् । ४ । “नो सन्ध्या हितमत्सरा तव तनौ वत्स्याम्यहं सन्धिना न प्रीतासि वरोरु चेत्कथय तत् प्रस्तौमि किं विग्रहम् । कार्य्यं तेन न किञ्चिदस्ति शठ मे वीनां ग्रहे- णेति वो दिश्याद्वः प्रतिबद्धकेलिशिवयोः श्रेयांसि वक्रोक्तयः ॥”)
देवविग्रहकरणादिप्रमाणं श्रीमूर्त्तिशब्दे द्रष्टव्यम् ॥


शब्दकल्पद्रुमः

विग्रहः || पुं, क्ली, (विगृह्यन्ते शत्रवो यस्मिन् । वि + ग्रह + अप् ।)
युद्धम् । इत्यमरः ॥ (यथा, मनुः । ७ । १७० । “यदा प्रहृष्टा मन्येत सर्व्वास्ताः प्रकृतीर्भृशम् । अत्युच्छ्रितं तथात्मानं तदा कुर्व्वीत विग्रहम् ॥”)



Correction: