संस्कृत-शब्दकोशः

विघटित विघस

विघट्टित

वाचस्पत्यम्

विघट्टित ||‍ त्रि० वि + घट्ट—क्त । १ चालिते २ वियोजिते च ।


शब्दकल्पद्रुमः

विघट्टितं || त्रि विशेषेण चालितम् । विपूर्ब्बघट्ट- घातोः क्तप्रत्ययेन निष्पन्नम् ॥ (यथा, बृहत्- संहितायाम् । ३५ । १ । “सूर्य्यस्य विविधवर्णाः पवनेन विघट्टिताः कराः साभ्रे । वियति धनुःसंस्थाना ये दृश्यन्ते तदिन्द्रधनुः ॥” विद्धम् । यथा, माघे । ८ । २४ । “त्रस्यन्ती चलशफरीविघट्टितोरू- र्वामोरूरतिशयमाप विभ्रमस्य ॥”)



Correction: