वाचस्पत्यम्
विघस || पु० वि + अद—घञ् । भोजनशेषे मेदि० २ आहारे च शब्दच० । ३ सिक्थके न० राजनि० । ४ दैवपैत्रदत्तशेषे
शब्दकल्पद्रुमः
विघसं || क्ली (विशेषेण अद्यते इति । वि + अद् + “उपसर्गेऽदः ।” ३ । ३ । ५९ । इति अप् । “घञपोश्च ।” २ । ४ । ३८ । इति घसॢ- आदेशः ।)
सिक्थकम् । इति राजनिर्घण्टः ॥
शब्दकल्पद्रुमः
विघसः || पुं, (वि + अद् + अप् ।)
भोजनशेषः । इत्यमरः ॥ देवपित्रतिथिगुर्व्वादिभुक्तस्य शेषः । इति भरतः ॥ (यथा, मनुः । ३ । २८५ । “विघसाशी भवेन्नित्यं नित्यं वामृतभोजनः । विघसो भुक्तशेषन्तु यज्ञशेषं तथामृतम् ॥”)
आहारः । इति शब्दरत्नावली ॥ (यथा, —
“अयि वनप्रिय ! विस्मृत एव किं वलिभुजो विघसो भवताधुना । यदनयैव कुहूरिति विद्यया न पततश्चरणौ धरणौ तव ॥” इत्युद्भटः ॥)