वाचस्पत्यम्
विघात || पु० वि + हन—क्त । १ व्याघाते २ आघाते च ।
शब्दकल्पद्रुमः
विघातः || पुं, (विशेषेण हननमिति । वि + हन + घञ् ।)
व्याघातः । यथा, अमरे । “वृष्टिर्वर्षं तद्बिघातेऽवग्राहावग्रहौ समौ ॥” आघातः । (यथा, महाभारते । “चक्रे शरविघातञ्च क्रीडन्निव पितामहः ॥” विनाशः । यथा महाभारते । १ । २९ । १३ । “क्षुत्पिपासाविघातार्थं भक्ष्यमाख्यातु मे भवान् ॥”)