संस्कृत-शब्दकोशः

विघात विघ्न

विघातिन्

वाचस्पत्यम्

विघातिन् ||‍ त्रि० वि + हन्—णिनि । १ निवारके । २ नाशके, ३ नाशप्रतियोगिनि च “नित्यश्चायं वल्निमित्तो विघाती” इति व्याकरणका० । ण्वुल् । विघातकोऽप्यत्र ।


शब्दकल्पद्रुमः

विघाती || [न्] त्रि, निवारकः । घातकः । विघात- शब्दादिन्प्रत्ययेन विपूर्ब्बहनधातोर्ग्रहादित्वा- ण्णिन्प्रत्ययेन वा निष्पन्नः ॥ (यथा, हरि- वंशे । ८७ । ४५ । “एवमूर्ज्जितवीर्य्यस्य ममामरविघातिनः ॥”)



Correction: