वाचस्पत्यम्
विघ्न || पु० वि + हन—क । १ व्याघातके अन्तराये अमरः । २ कृ- ष्णपाकफलायां शब्दच० ।
शब्दकल्पद्रुमः
विघ्नः || पुं, (विहन्यते अनेनेति । वि + हन + “घञर्थे कविधानम् ।” ३ । ३ । ५८ । इत्यस्य वार्त्तिकोक्त्या कः ।)
व्याघातः । तत्पर्य्यायः । अन्तरायः २ प्रत्यूहः ३ । इत्यमरः ॥ (यथा, मुद्राराक्षसे । २ । “प्रारभ्यते न खलु विघ्नभयेन नीचैः प्रारभ्य विघ्ननिहता विरमन्ति मध्याः । विघ्नैः पुनः पुनरपि प्रतिहन्यमाना प्रारब्धमुत्तमगुणास्त्वमिवोद्बहन्ति ॥” कृष्णपाकफला । इति शब्दचन्द्रिका ॥ शेषार्थे अमरे अविग्न इति पाठः ॥