वाचस्पत्यम्
विचक्षुस् || त्रि० वि + चक्ष—उसि न ख्यादेशः । १ विमनस्के त्रिका० । विगतं चक्षुर्यस्य । २ नेत्रशृन्ये त्रि० ।
शब्दकल्पद्रुमः
विचक्षुः || [स्] त्रि, (विगतं प्रत्यक्षितेऽपि वस्तुनि व्यपगतं चक्षुर्यस्य ।)
विमनाः । इति त्रिकाण्ड- शेषः ॥ (विगते नष्टे चक्षुषी यस्य ।)
विगतचक्षुषि, त्रि ॥ (यथा, महाभारते । १२ । ६५ । ३४ । “अन्तरा विलयं यान्ति यथा पथि विच- क्षुषः ॥ *” ॥ विशिष्टे चक्षुषी यस्य सः । वृष्णिवंशीयः कश्चिद् थोद्धा । यथा, हरिवंशे । १४१ । ९ । “कृतवर्म्मा सुदंष्ट्रश्च विचक्षुररिमर्द्दनः ॥”)