वाचस्पत्यम्
विचर्चिका || स्त्री वि + चर्च—ण्वुल् । पामनि रोगमेदे अमरः । सा च स्वल्पकुष्ठविशेषः । “एकं कुष्ठं स्मृतं पूर्वं गजचर्म ततः स्मृतम् । ततश्चर्मदल प्रोक्तं ततश्चापि विचर्चिका । विपादिकाभिधा सैव पामा कच्छस्ततः परा । ततो दद्रुश्च विष्फोटः किटिमञ्च ततः परम् । ततश्चालसकं प्रोक्तं शतारुश्च ततः परम् । क्षुद्रकुष्ठानि चैतानि कथितानि भिषग्वरैः । सकण्डूः पिडका श्यावा बहुस्रावा विच- र्चिका” पिडका लुद्रपिडका । “दाल्यते त्वक् खरा रूक्षा- लान्वोर्ज्ञेया विचर्क्षिका । पादे विपादिका ज्ञेया स्थान० भेदाद्विचर्चिका” । “केचिद्विचर्चिकातो विपादिकां भिन्ना माहुः” भावप्र० । कुष्ठशब्दे २१५४ पृ० दृश्यम् ।
शब्दकल्पद्रुमः
विचर्च्चिका || स्त्री (विशेषेण चर्च्च्यते पाणिपादस्य त्वक् विदार्य्यते अनया इति । चर्च्च तर्जने + “रोगाख्यायां ण्वुल् बहुलम् ।” ३ । ३ । १०८ । इति ण्वुल् । टापि अत इत्वम् ।)
रोगविशेषः । विकच इति भाषा । तत्पर्य्यायः । कच्छूः २ पाम ३ पामा ४ । इत्यमरः ॥ अपि च । “कच्छुः कच्छूः पाम पामा पादरोगे विच- र्च्चिका ।” इति शब्दरत्नावली ॥ * ॥
तदौषधम् यथा, —
“करवीरं भृङ्गराजं लवणं कुष्ठकर्कटम् । चतुर्गुणेन मूत्रेण पचेत्तैलं हरेत्ततः । पामां विचर्च्चिकां कुष्ठमभ्यङ्गाद्धि व्रणानि वै ॥” इति गारुडे २८७ अध्यायः ॥ * ॥
अन्यच्च । “मरीचं त्रिवृतं कुष्ठं हरितालं मनःशिला । देवदारु हरिद्रे द्वे कुष्ठं मांसी च चन्दनम् ॥ विशाला करवीरञ्च अर्कक्षीरं सकृत् पलम् । एषाञ्च कार्षिको भागो विषस्यार्द्धपलं भवेत् ॥ प्रस्थं कटुकतैलस्य गोमूत्रेऽष्टगुणे पचेत् । मृत्पात्रे लौहपात्रे वा शनैर्मृद्वग्निना पचेत् ॥ पामा विचर्चिका चैव दद्रुविष्फोटकानि च । अभ्यङ्गेन प्रणश्यन्ति कोमलत्वञ्च जायते ॥ प्रसूतान्यपि श्वित्राणि तैलेनानेन म्रक्षयेत् । चिरोत्थितमपि श्वित्रं विवर्णं तत्क्षणाद्भवेत् ॥” इति गारुडे १९८ अध्यायः ॥ * ॥
स्वल्पकुष्ठविशेषः । यथा । “एकं कुष्ठं स्मृतं पूर्व्वं गजचर्म्म ततः स्मृतम् । ततश्चर्म्मदलं प्रोक्तं ततश्चापि विचर्च्चिका ॥ विपादिकाभिधा सैव पामा कच्छूस्ततः परा । ततो दद्रुश्च विष्फोटः किटिमञ्च ततः परम् ॥ ततश्चालमकं प्रोक्तं शतारुश्च ततः परम् । क्षुद्रकुष्ठानि चैतानि कथितानि भिषग्वरैः ॥ सकण्डुः पिडका श्यावा बहुस्रावा विच- र्च्चिका ॥” पिडका क्षुद्रपिडका । “दाल्यते त्वक् खरा रूक्षा जान्वोर्ज्ञेया विच- र्च्चिका । पादे विपादिका ज्ञेया स्थानभेदाद्विचर्च्चिका ॥” दाल्यते विदार्य्यते । केचिद्विचर्च्चिकातो विपा- दिकां विभिन्नमाहुः । इति भावप्रकाशः ॥ (सा च महापातकशेषभोगचिह्नं वैदिककर्म्म- प्रतिबन्धिका च । यथा, शुद्धितत्त्वधृतभविष्य- पुराणीयमध्यतन्त्रे षष्ठाध्याये । “शृणु कुष्ठगणं विप्र उत्तरोत्तरतो गुरुम् । विचर्च्चिका तु दुश्चर्म्मा चर्च्चरीयस्तृतीयकः ॥ विकर्च्चूर्व्रणताम्रौ च कृष्णश्वेते तथाष्टकम् । एषां मध्ये तु यः कुष्ठी गर्हितः सर्व्वकर्म्मसु ॥ व्रणवत् सर्व्वगात्रेषु गण्डे भाले तथानसि । मृते च प्रोपयेत् तीर्थे अथवा तरुमूलके ॥” कदाचित् अग्निजन्यभूमिकम्पेऽपि विचर्च्चिका उतपद्यते । यथा बृहत्संहितायाम् । ३२ । १४ । “आग्नेयेऽम्बुदनाशः सलिलाशयसङ्क्षयो नृपतिवैरम् । दद्रुविचर्च्चिकाज्वर- विसर्पिकाः पाण्डुरोगश्च ॥”)