वाचस्पत्यम्
विचारण || न० वि + चर—णिच्—ल्युट् । १ विचारे शब्दर० । युच् । तत्रैव स्त्री अमरः । २ मीमांसाशास्त्रे हेमच०
शब्दकल्पद्रुमः
विचारणं || क्ली (वि + चर + णिच् + ल्युट् ।)
विचारः । इति शब्दरत्नावली ॥ (यथा, भागवते । १२ । १३ । १८ । “तत्र ज्ञानविरागभक्तिसहितं नैष्कर्म्ममा विष्कृतम् । तच्छृण्वन् सुपठन् विचारणपरो भक्त्या विमुच्ये- न्नरः ॥” “एकस्मिन् धर्म्मिणि विरुद्धनानार्थविमर्षो विचारणम् । स च संशयस्त्रिधा स्यात् एको विशेषादर्शने समानधर्म्मदर्शनात् । अहिर्न्नु- रज्जुर्न्नु । द्वितीयो विशेषादर्शनमात्रे । अत्र शब्दो नित्योऽनित्यो वा । तृतीयोऽसाधारण- धर्म्मजः यथा भूर्नित्या अनित्या वा । अत्र गन्धो- ऽसाधारणधर्म्मः विशेषमपश्यन् संशेते गन्धाधि- करणं नित्यं अनित्यं वेति दिक् ।” इति । “विचारणे पूर्व्वस्य ।” इति श्रीपतिदत्तकृतका- तन्त्रपरिशिष्टे गोपीनाथतर्काचार्य्यः ॥)