वाचस्पत्यम्
विचारित || त्रि० विचारो जातोऽस्य इतच् । कृतविचारे ।
शब्दकल्पद्रुमः
विचारितः || त्रि (विचारः संजातोऽस्य इति विचार + “तदस्य संजातं तारकादिभ्य इतच् ।” ५ । २ । ३६ । इति इतच् ।)
कृतविचारः । तत्पर्य्यायः । विन्नः २ वित्तः ३ । इत्यमरः ॥ (यथा, मनौ । ११ । २८ । “आपत्कल्पेन यो धर्म्मं कुरुतेऽनापदि द्बिजः । स नाप्नोति फलं तस्य परत्रेति विचारितम् ॥”)