वाचस्पत्यम्
विचाल || त्रि० वि + चल—कर्त्तरि ण । १ अभ्यन्तरे २ अन्त- राले—हेमच० । वि + चल—णिच् भावे अच् । ३ अन्यथा स्थितस्य वस्तुनो विशेषरूपतापादने “अधिकरणविचाले च” पा० “द्रव्यस्य संख्यान्तरापादने संख्याया धां स्यात् । एकं राशिं पञ्चधा कुरु” सि० कौ० ।
शब्दकल्पद्रुमः
विचालं || त्रि अभ्यन्तरम् । अन्तरालम् । इति हेमचन्द्रः ॥ (पुं, संख्यान्तरापादनम् । यथा, पाणिनौ । ५ । ३ । ४३ । “अधिकरणे विचाले च ॥”)