संस्कृत-शब्दकोशः

विच्छ विच्छर्दक

विच्छन्दक

वाचस्पत्यम्

विच्छन्दक ||‍ पु० विशिष्टः छन्दो यत्र कप् । ईश्वरगृहे अमरः “उपर्य्युपरि यद्गेहं तद्विच्छन्दकसंज्ञितम्” ।


शब्दकल्पद्रुमः

विच्छन्दकः || पुं, ईश्वरसद्मप्रभेदः । इत्यमरः ॥ विशिष्टश्छन्दोऽभिप्रायोऽत्र विच्छन्दकः । किंवा विशिष्टेच्छानिर्म्मितो विच्छन्दकः ढघे कादिति कः । एवं लक्षणमुपन्यस्तं साञ्झेन । यथा, —
“उपर्य्युपरि यद्गेहं तद्विच्छन्दकसंज्ञकम् ॥” इति भरतः ॥



Correction: