संस्कृत-शब्दकोशः

विच्छिन्न विच्युत

विच्छेद

वाचस्पत्यम्

विच्छेद ||‍ पु० वि + छिद—भावे घञ् । १ वियोगे २ सन्ततिरा हित्ये ३ विभागे च ।


शब्दकल्पद्रुमः

विच्छेदः || पुं, (वि + छिद् + घञ् ।)
वियोगः । विरहः । भेदः । यथा, ब्रह्मवैवर्त्ते गणपतिखण्डे । “कान्तायाः कान्तविच्छेदो मरणादति- रिच्यते ॥” (लोपः । यथा, रघुवंशे । १ । ६६ । “नूनं मत्तः परं वंश्याः पिण्डविच्छेददर्शिनः । न प्रकामभुजः श्राद्धे स्वधासंग्रहतत्पराः ॥”)



Correction: