संस्कृत-शब्दकोशः

विज विजनन

विजन

वाचस्पत्यम्

विजन ||‍ त्रि० विगतो जनो यस्मात् प्रा० ब० । निर्जने अमरः ।


शब्दकल्पद्रुमः

विजनः || त्रि (विगतो जनो यस्मात् ।)
निर्ज्जनः । तत्पर्य्यायः । विविक्तः २ छन्नः ३ निःशलाकः ४ रहः ५ उपांशु ६ । इत्यमरः ॥ (यथा, महा- भारते । १ । १५२ । १५ । “ततो भीमो वनं घोरं प्रविश्य विजनं महत् । न्यग्रोधं विपुलच्छायं रमणीयं ददर्श ह ॥”)



Correction: