वाचस्पत्यम्
विजया || स्त्री १ आश्विनशुक्लपक्षीयदशम्याम् २ उमायाः सखीभेदे वामनपु० ४ अ० “कथयतु विजया” इति मुद्राराक्षसम् । ३ दुर्गायां हेमच० “विजित्य पद्मनामानं दैत्यराजं महाबलम् । विजया तेन सा देवी लोके चैवापराजिता” देवीपु० ४५ अ० । ४ जयन्त्यां ५ शेफालिकायां ६ मञ्जिष्ठायां ७ शमीभदे, ८ अग्निमन्थे राजनि० । ९ भङ्गायाम् (सिद्धि) हेमच० तत्पर्य्यायगुणादि भावप्र० उक्तं यथा ||“भङ्गा गञ्जा मातुलानी मादिनी विजया जया । भङ्गा कफहरो तिक्ता ग्राहिणी पाचनी लघुः । तीक्ष्णोष्णा पित्तला मोहमदवाग्वह्निवर्द्धिनी” भावप्र० । अष्टद्वादशीमध्ये “यदा तु शुक्लद्वादश्यां नक्षत्रं श्रवणं भवेत् । तदा सा तु महापुण्या द्वादशी विजया स्मृता” इत्युक्ते १० द्वादशीभेदे “शुक्लपक्षस्य सप्तम्यां सूर्य्यवारो यदा भवेत् । सप्तमी विजया नाम” इत्युक्ते सप्तमीभेदे च । ११ यमभार्य्यायां १२ हरितक्यां जटा० । १३ वचायां रत्नमा० । १४ अस्त्रविद्याभेदे “विद्याभथैनं विजयां जयाञ्च” भट्टिः ।
वाचस्पत्यम्
विजया || स्त्री शच्यादिषु मातृषु मातृभेदे
शब्दकल्पद्रुमः
विजया || स्त्री तिथिविशेषः । सा विजयादशमीति ख्याता । तत्कृत्यं दुर्गाशब्दे द्रष्टव्यम् । उमा- सखी । इति मेदिनी । ये, ४० ॥ सा तु गोतम- कन्या । नथा, —
“तमागतां सती दृष्ट्वा जयामेकामुवाच ह । किमर्थं विजया नागाज्जयन्ती चापराजिता ॥ सा देव्या वचनं श्रुत्वा उवाच परमेश्वरीम् ॥ गता निमन्त्रिताः सर्व्वा मखे मातामहस्य ताः । समं पित्रा गौतमेन मात्रा चाप्यनुराधया ॥” इति वामनपुराणे ४ अध्यायः ॥ कालिकापुराणे १७ अध्यायेऽप्येवम् ॥ * ॥
विश्वा- मित्रोपासितविद्याविशेषः । यथा, —
“विद्यामथैनं विजयां जयाञ्च रक्षोगणं क्षिप्नुमविक्षतात्मा । अध्यापिपत् गाधिसुतो यथाव- न्निघातयिष्यन् युधि यातुधानान् ॥” इति भट्टिः । २ । २१ ॥ * ॥
दुर्गा । इति हेमचन्द्रः ॥ तथा च । “विजित्य पद्मनामानं दैत्यराजं महाबलम् । विजया तेन सा देवी लोके चैवापराजिता ॥” इति देवीपुराणे ४५ अध्यायः ॥ * ॥
यमभार्य्या । हरीतकी । इति जटाधरः ॥ वचा । इति रत्नमाला ॥ जयन्ती । शेफा- लिका । मञ्जिष्ठा । शमीभेदः । अग्निमन्थः । इति राजनिर्घण्टः ॥ मादकद्रव्यविशेषः । भाङ् इति सिद्धि इति च भाषा । तत्पर्य्यायः । त्रैलोक्यविजया २ भङ्गा ३ इन्द्रासनम् ४ जया ५ । इति शब्दचन्द्रिका ॥ वीरपत्रा ६ गञ्जा ७ चपला ८ अजया ९ आनन्दा १० हर्षिणी ११ । अस्या गुणाः । कटुत्वम् । कषायत्वम् । उष्ण- त्वम् । तिक्तत्वम् । वातकफापहत्वम् । संग्रा- हित्वम् । वाक्प्रदत्वम् । बल्यत्वम् । मेधा- कारित्वम् । श्रेष्ठदीपनत्वञ्च । इति राज- निर्घण्टः ॥ अपि च । “भङ्गा गञ्जा मातुलानी मादिनी विजया जया । भङ्गा कफहरी तिक्ता ग्राहिणी पाचनी लघुः । तीक्ष्णोष्णा पित्तला मोहमदवाग्वह्निवर्द्धिनी ॥” इति भावप्रकाशः ॥ अन्यच्च । “शक्राशनं तु तीक्ष्णोष्णं मोहकृत् कुष्ठनाश- नम् । बलमेधाग्निकृत् श्लेष्मदोषहारि रसायनम् ॥ जाता मन्दरमन्थनाज्जलनिधौ पीयूषरूपा पुरा त्रैलोक्ये विजयप्रदेति विजया श्रीदेवराजप्रिया । लोकानां हितकाम्यया क्षितितले प्राप्ता नरैः कामदा सर्व्वातङ्कविनाशहर्षजननी यैः सेविता सर्व्वदा ॥” इति राजवल्लभः ॥ * ॥
अष्टमहाद्वादश्यन्तर्गतद्वादशीविशेषः । यथा, अथ विजयाव्रतम् । ब्रह्मपुराणे । “यदा तु शुक्लद्वादश्यां नक्षत्रं श्रवणं भवेत् । तदा सा तु महापुण्या द्बादशी विजया स्मृता ॥ तस्यां स्नातः सर्व्वर्तीर्थे स्नातो भवति मानवः । संपूज्य वर्षपूजायाः सकलं फलमश्नुते ॥ एकजप्यात् सहस्रस्य जप्तस्याप्नोति सत् फलम् । दानं सहस्रगुणितं तथा वै विप्रभोजनम् ॥ होमस्तत्रोपवासश्च सहस्रगुणितो भवेत् ॥” * ॥
अथ व्रतविधिः । “आदौ गुरुं नमस्कृत्य ततः सङ्कल्पमाचरेत् । शरशार्ङ्गधरं देवं सौवर्णं रचयेत्त्वराम् ॥” सङ्कल्पमन्त्रः । “द्वादश्याहं निराहारः स्थित्वाहमपरेऽहनि । भोक्ष्ये त्रिविक्रमानन्त शरणं मे भवाच्युत ॥ सोपवीतन्तु कलसं पूर्ब्बवत् स्थापयेद्व्रती । पात्रं तदुपरि न्यस्येत्ताम्रं वैणवमेव वा ॥ तत्रोपवेश्य स स्नाप्य देवं विशदचन्दनैः । आलिप्य शुभ्रं वसनं दद्याच्छत्रञ्च पादुके ॥ वासुदेवायेति शिरः श्रीधरायेति वै मुखम् । कृष्णायेति च कण्ठं वै वक्षः श्रीपतये इति ॥ शस्त्रास्त्रधारिणे बाहू कक्षे च व्यापकाय वै । कवीशायोदरं मेढ्रं त्रैलोक्यजननाय च ॥ जघनं चार्च्चयेद्विद्वान् सर्व्वाधिपतये इति । सर्व्वात्मने इति पदावेवमङ्गानि पूजयेत् ॥ शङ्खचक्रगदापद्मशार्ङ्गशरविभूषितम् । गृहाणार्ध्यं मया दत्तं शार्ङ्गपाणे ! नमोऽस्तु ते ॥ इत्यर्घ्यं पूर्ब्बवत् कृत्वा धूपदीपौ समर्प्य च । घृतपक्वप्रधानानि नैवेद्यानि निवेदयेत् ॥ ताम्बूलादीनि दत्त्वाथ कृत्वा जागरणं निशि । प्रातःस्नात्वार्च्चयित्वेशं पुष्पाञ्जलिमथार्च्चयेत् ॥ नमस्ते अस्तु गोविन्द बुध श्रवणसंज्ञक । अघोरं चाक्षयं कृत्वा सर्व्वसौख्यप्रदो भव ॥ इति प्रार्थ्य ततः सर्व्वं दत्त्वा चार्घ्यं प्रतोष्य हि । शक्त्या विप्रान् भोजयित्वा सुखं पारणमाचरेत् ॥ भाद्रे मासि बुधस्याह्नि यदि स्याद्विजयाव्रतम् । तदा सर्व्वव्रतेभ्योऽस्य माहात्म्यमतिरिच्यते ॥” इति श्रीहरिभक्तिविलासे १३ विलासः ॥ (सहदेवपत्नी । यथा, महाभारते । १ । ९५ । ८० । “सहदेवोऽपि माद्रीमेव स्वयंवरे विजयां नामो- पयेमे मद्रराजस्य द्युतिमतो दुहितरं तस्यां पुत्त्रमजनयत् सुहोत्रं नाम ॥” * ॥
पुरुवंशीयभूमन्योः पत्नी । यथा, तत्रैव । १ । ९५ । ३३ । “भूमन्युः खलु दाशार्हीमुपयेमे विजयां नाम तस्यामस्य जज्ञे सुहोत्रः ॥”)