संस्कृत-शब्दकोशः

विजयाभिनन्दन विजयिन

विजयासप्तमी

शब्दकल्पद्रुमः

विजयासप्तमी || (विजयाख्या सप्तमी ।)
रविवारे शुक्लपक्षीया सप्तमी । यथा, —
“शुक्लपक्षस्य सप्तम्यां सूर्य्यवारो यदा भवेत् । सप्तमी विजया नाम तत्र दत्तं महाफलम् ॥” इति तिथ्यादितत्त्वम् ॥ * ॥
अथ विजयोत्सवविधिः । “रथमारोप्य देवेशं सर्व्वालङ्कारशोभितम् । सासितूणधनुर्ब्बाणपाणिं नक्तञ्चरान्तकम् ॥ स्वलीलया जगत्त्रातुमाविर्भूतं रघूद्वहम् । राजोपचारैः श्रीरामं शमीवृक्षतलं नयेत् ॥ सीताकान्तं शमीयुक्तं भक्तानामभयङ्करम् । अर्च्चयित्वा शमीवृक्षमर्च्चयेद्विजयाप्तये ॥” तत्र मन्त्रः । “शमी शमयते पापं शमी लोहितकण्टका । धरित्र्यर्ज्जुनबाणानां रामस्य प्रियवादिनी ॥ करिष्यमाणा या यात्रा यथाकालं सुखं मया । तत्र निर्व्विघ्नकर्त्ती त्वं भव श्रीरामपूजिता ॥ गृहीत्वा साक्षतामार्द्रां शमीमूलगतां मृदम् । गीतवादित्रनिर्घोषैस्ततो देवं गृहं नयेत् ॥ कैश्चिदृक्षैस्तत्र भाव्यं कैश्चिद्भाव्यञ्च वानरैः । कैश्चिद्रक्तमुखैर्भाव्यं कोशलेन्द्रस्य तुष्टये ॥ निर्जता राक्षसा दैत्या वैरिणो जगतीतले । रामराज्यं रामराज्यं रामराज्यमिति ब्रुवन् ॥ आनीय स्थापयेद्देवं निजसिंहासने सुखम् । ततो नीराज्य देवेशं प्रणमेद्दण्डवद्भुवि ॥ महाप्रसादवस्त्रादि धारयेद्वैष्णवैः सह । इति श्रीविष्णुधर्म्मोक्तानुसारेण व्यलेख्ययम् ॥ विधिः श्रीरामविजयोत्सवस्योत्सवकृत् सताम् । सीता दृष्टेति हनुमद्वाक्यं श्रुत्वाकरोत्प्रभुः ॥ विजयं वानरैः सार्द्धं वासरेऽस्मिन् शमी- तलात् ॥” इति श्रीहरिभक्तिविलासे १५ विलासः ॥



Correction: