शब्दकल्पद्रुमः
विजयी || [न्] त्रि, (विशेषेण जेतुं शीलमस्य । वि + जि + “जिदृक्षिविश्रीति ।” ३ । २ । १५७ । इति इनिः ।)
जययुक्तः । यथा, —
“वज्रपञ्जरनामेदं यो रामकवचं पठेत् । स चिरायुः सुखी पुत्त्री विनयी विजयी भवेत् ॥” इति तन्त्रसारः ॥ (पुं, अर्ज्जुनः । यथा, —
“अर्ज्जुनः फाल्गुनी जिष्णुः किरीटी श्वेतवा- हनः । वीभत्सुर्व्विजयी कृष्णः सव्यसाची धनञ्जयः ॥ एतान्यर्ज्जुननामानि प्रातरुत्थाय यः पठेत् । उद्यतेष्वपि शस्त्रेषु हन्ता तस्य न विद्यते ॥” इति सर्व्वजनप्रसिद्धम् ॥)