शब्दकल्पद्रुमः
विजल्पः || पुं, (विशेषेण जल्पनमिति । वि + जल्प + घञ् ।) वाक्यविशेषः । यथा, — “व्यक्तयासूयया गूढमानमुद्रान्तरालया । अघद्विषि कटाक्षोक्तिर्विजल्पो विदुषां मतः ॥” इत्युज्ज्वलनीलमणिः ॥