वाचस्पत्यम्
विजिगीषाविवर्जित || त्रि० ६ त० । औदरिके अमरः ।
शब्दकल्पद्रुमः
विजिगीषाविवर्ज्जितः || त्रि (विजिगीषया विव- र्ज्जितः ।)
केवलमुदराधीनः । तत्पर्य्यायः । आद्यूनः २ औदरिकः ३ । इत्यमरः ॥ विजि- गीषा व्यवहारः कश्चित् प्रकर्षो वा तेन विव- र्ज्जितो विहीनो यः केवलमुदराधीनः तत्र द्वाविमौ तर्त्तेते इत्यर्थः । जिगीषा जेतुमि- च्छायां व्यवहारप्रकर्षयोः । इति मेदिनी ॥ तत्र स्वोदरपूरणाशक्तिनिमित्तकनिन्दात्यागेच्छा विजिगीषा तया रहिते द्वयमिति रमानाथः । इति तट्टीकायां भरतः ॥