वाचस्पत्यम्
विज्ञात || त्रि० वि + ज्ञा—क्त । १ ख्याते अमरः । २ ज्ञाते च ।
शब्दकल्पद्रुमः
विज्ञातः || त्रि (वि + ज्ञा + क्तः ।) ख्यातः । इत्य- मरः ॥ (विदितः । यथा, हरिवंशे । १६५ । १७ । “विज्ञातोऽसि मया चिह्नैर्विना चक्रं जना- र्द्दनः ॥”)