वाचस्पत्यम्
विज्ञान || न० वि + ज्ञा ल्युट् । १ ज्ञाने २ कर्मणि मेदि० ३ शि- ल्पादिज्ञाने अमरः । ४ वेदान्तोक्ते अविद्यावृत्तिमेदे च । ५ बौद्धमतसिद्धे आत्मरूपे ज्ञाने च । “चतुर्दशानां विद्यानां धरणं हि यथार्थतः । विज्ञानमितरत् विद्यात् येन धर्मो विवर्द्धते” कूर्मपु० १४ अ० उक्ते ६ चतुर्दशविद्याज्ञाने च ।
शब्दकल्पद्रुमः
विज्ञानं || क्ली (वि + ज्ञा + ल्युट् ।)
ज्ञानम् । कर्म्म । इति मेदिनी । ने, ११३ ॥ कार्म्मणम् । इति हेमचन्द्रः ॥ “मोक्षे धीर्ज्ञानमन्यत्र विज्ञानं शिल्प- शास्त्रयोः ॥” इत्यमरः ॥ “विशेषेण सामान्येन चावबोधो मोक्षो मुक्तिः शिल्पं चित्रादिशास्त्रं व्याकरणादि । मोक्षे शिल्पे शास्त्रे च या धीः सा ज्ञानं विज्ञानञ्चो- च्यते एषा विशेषप्रवृत्तिः । अन्यत्र घटपटादौ या धीः सापि ज्ञानं विज्ञानञ्चोच्यते । एषा सामान्यप्रवृत्तिः । मोक्षे धीर्ज्ञानं विज्ञानञ्च यथा । ज्ञानान्मुक्तिरिति । सा याचिता च विज्ञानं तुष्टा ऋद्धिं प्रयच्छति इति । अन्यत्र यथा । ज्ञानमस्ति समस्तस्य जन्तोर्विषयगोचरे इति । घटत्वप्रकारकज्ञानमिति । ये केचित् प्राणिनो लोके सर्व्वे विज्ञानिनो मता इति । ब्रह्मणो नित्यविज्ञानानन्दरूपत्वात् इति । एवं चित्रज्ञानं व्याकरणज्ञानं घटपटविज्ञानमित्या- दिकं प्रयुज्यत एव । तद्विगमे गरुत्मदादिशब्द- वत् गरुत्मच्छब्दो हि गरुडे पक्षिमात्रे च वर्त्तते । मोक्ष इति निमित्तसप्तमी मोक्षनिमित्तं शिल्पशास्त्रयोर्धोर्ज्ञानमुच्यते । तन्निमित्ततो- ऽन्यनिमित्तं या तयोर्धीः सा विज्ञानमिति केचित् । मोक्षविषया मोक्षफला धीर्ज्ञानं अन्यधीर्व्विज्ञानम् । क्वान्यत्र इत्याह शिल्प- शास्त्रयोरिति केचित् । अवबोध इत्यध्याहृत्य मोक्षविषयेऽवबोधो धीर्ज्ञानं अन्यत्र घटपटादि- विज्ञानं शिल्पशास्त्रविषये विज्ञानमिति केचित् । जानातेरनट् ज्ञानं विविधं विरूपं वा ज्ञानं विज्ञानम् ।” इत्यमरटीकायां भरतः ॥ * ॥
तत्तु ब्राह्मणस्य लक्षणविशेषः । यथा, —
“क्षमा दया च विज्ञानं सत्यञ्चैव दमः शमः । अध्यात्मनित्यता ज्ञानमेतद्ब्राह्मणलक्षणम् ॥” ज्ञानविज्ञानयोर्लक्षणं यथा, —
“चतुर्द्दशानां विद्यानां धारणं हि यथार्थतः । विज्ञानमितरं विद्याद्येन धर्म्मो विवर्द्धते ॥ अधीत्य विधिवद्विद्यामर्थञ्चैवोपलभ्य तु । धर्म्मकार्य्यान्निवृत्तश्चेन्न तद्विज्ञानमिष्यते ॥ यया स देवो भगवान् विद्यते यत्र विद्यते । साक्षादेव महादेवस्तज्ज्ञानमिति कीर्त्तितम् ॥” इति कौर्म्मे उपविभागे १४ अध्यायः ॥