संस्कृत-शब्दकोशः

विञ्जोली विटङ्क

विट

वाचस्पत्यम्

विट is an alternate of बिट. बि(वि)ट ||‍ आक्रोशे भ्वा० पर० सक० सेट् । बे(वे)टति अबे(वे)टीत्


वाचस्पत्यम्

विट ||‍ आक्रोशे सक० स्वने अक० भ्वा० पर० सेट् । वेटति अवेटीत् ।


वाचस्पत्यम्

विट ||‍ पु० विट क । १ षिड्गे जारे अमरः । २ शृङ्गाररसनाय- कानुचरे “सम्भेगहीनसम्पद् विटस्तु धूर्त्तः फलैक देशज्ञः । वेशोपचारकुशलो वाग्मी मधुरोऽथ बहुमतो गोष्ठ्याम्” सा० द० । ३ धूर्त्ते, “विट! विटपममुं ददस्व तस्यै” माघः ४ पर्वतभेदे ५ लवणभेदे ६ खदिरभेदे ७ मूषिके च मेदि० । ८ नारङ्गवृक्षे शब्दमाला ।


शब्दकल्पद्रुमः

विट || आक्रोशे । स्वने । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-सक०-स्वने अक०-सेट् ।)
वेटति । आक्रोशः । कैश्चिन्न पठ्यते । स्वनः शब्दः । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

विटः || पुं, (वेटतीति । विट + कः ।)
षिड्गः । इत्यमरः ॥ (यथा, भागवते । १० । १३ । २ । “सतामयं सारभृतां निसर्गो यदर्थवाणीश्रुतिचेतसामपि । प्रतिक्षणं नव्यवदच्युतस्य यत् स्त्रिया विटानामिव साधु वार्त्ता ॥”)
कामुकानुचरः । धूर्त्तः । इति भरतः ॥ काम- तन्द्रकलाकोविदः । इति रसमञ्जरी ॥ पर्व्वत- विशेषः । लवणभेदः । खदिरविशेषः । मूषिकः । इति मेदिनी । टे, २८ ॥ नारङ्गवृक्षः । इति शब्दमाला ॥



Correction: