वाचस्पत्यम्
विटङ्क || न० वि + टकि—अच् । कपोतपालिकायां प्रासादाद्य- ग्रस्थे काष्ठनिर्मिते कपोतावासस्थाने । (पायराखोप) अमरः ।
शब्दकल्पद्रुमः
विटङ्कः || पुं क्ली, (विशेषेणटङ्क्यते सौधादिषु इति । वि + टङ्क बन्धने + घञ् ।)
कपोतपालिका । पायवार खोप इति भाषा । इत्यमरः ॥ द्वे सौधादिषु प्रान्ते काष्ठादिरचिते गृहपक्षि- स्थाने । कपोतान् पालयतीति कपोतपाली ढात् षण् इति षण् स्वार्थे कः कपोत इत्युपल- क्षणं पक्षिमात्रपालिकेति बोध्यम् । वीन् पक्षिणष्टङ्कयति बध्नाति विटङ्कं टकि क बन्धे षण् विशेषेण टङ्कयत्यत्रेति वा अल् घञ् वा । इति भरतः ॥ (यथा, माघे । ३ । ५५ । “रतान्तरे यत्र गृहान्तरेषु वितर्द्दिनिर्यूहविटङ्कनीडः । रुतानि शृण्वन् वयसां गणोऽन्ते- वासित्वमाप स्फुटमङ्गनानाम् ॥” * ॥
सुन्दरे, त्रि । यथा, भागवते । ३ । १५ । २७ । “देवावचक्षत गृहीतगदौ परार्द्द्य- केयूरकुण्डलकिरीटविटङ्कवेशौ ॥”)