संस्कृत-शब्दकोशः

विटप विटप्रिय

विटपिन्

वाचस्पत्यम्

विटपिन् ||‍ पु० विटप + अस्त्यर्थे इनि । १ वृक्षे अमरः । २ वटवृक्षे राजनि० ।


शब्दकल्पद्रुमः

विटपी || [न्] पुं, (विटपः शाखादिरस्त्यस्येति । विटप + इनिः ।)
वृक्षः । इत्यमरः ॥ (यथा, आर्य्यासप्तशत्याम् । ४८६ । “यूथपते तव कश्चिन्नहि मानस्यानुरूप इह विटपी । प्रेरय दिनं निदाघद्राघीयः क्व खलु ते च्छाया ॥”)
वटः । इति राजनिर्घण्ठः ॥ (विटपयुक्ते, त्रि । यथा, महाभारते । १ । ४३ । १० । “अङ्कुरं कृतवांस्तत्र ततः पर्णद्वयान्वितम् । पलाशिनं शाखिनञ्च तथा विटपिनं पुनः ॥”)



Correction: