वाचस्पत्यम्
विड्वराह || पुंस्त्री० विट्प्रियो वराहः शाक० । १ ग्राम्यशूकरे जटा० स्त्रियां ङीष् । “दसुनं विड्वराहञ्च” इति स्मृतिः ।
शब्दकल्पद्रुमः
विड्वराहः || पुं, (विट्प्रियो वराहः ।)
ग्राम्य- शूकरः । इति जटाधरः ॥ (यथा, मनुः । ५ । १९ । “छत्राकं विड्राहञ्च लशुनं ग्रामकुक्कुटम् । पलाण्डुं गृञ्जनञ्चैव मत्या जग्ध्वा पतेद्द्विजः ॥”)