वाचस्पत्यम्
वितण्डा || स्त्री वि + तडि—भावे अ । स्वपक्षाव्यवस्थापनेन परप- क्षमात्रनिराकरणे कथाभेदे अमरः । २ कच्छीशाके लाह्वये ४ करव्यां मेदि० ५ दर्व्यां हारा० । वितण्डाकथालक्षगं गौ० सू० उक्तं यथा “स प्रतिपक्ष- स्यापनाहीनो वितण्डा” सू० “स जल्पो वितण्डा भवति किंविशेषणः । प्रतिपक्षस्यापनया हीनः । यौ तौ समानाधिकरणौ विरुद्धौ धर्मौ पक्षप्रतिपक्षा- वित्युक्तौ तयोरेकतरं वैतण्डिको न स्थापयतीति पर- पक्षप्रतिषेधेनैव प्रवर्त्तत इति । अस्तु तर्हि प्रतिपक्ष- हीनो वितण्डा यद्वै खलु तत्परप्रतिषेधलक्षणं वाक्यं स वैतण्डिकस्य पक्षः न ह्यसौ साध्यं कञ्चिदर्थं प्रति- ज्ञाय स्थापयतीति तस्मात् यथान्यासमेवास्तु” वा० भा० । वृत्तौ तु सूत्रमन्यथा व्याख्यातं यथा “क्रमप्राप्तां वितण्डां लक्षयति स इति । यद्यपि तच्छ- ब्देन जल्पो न परामर्ष्टुं शक्यते जल्पस्य स्थापना- द्वयवतः प्रतिपक्षस्थापनाहीनत्वस्य विरुद्धत्वात् तथापि स्थापनाद्वयवत्त्वं विहाय जल्पैकदेशः परामृश्यते प्रति- पक्षो द्वितीय पक्षः तथाच प्रतिपक्षस्थापनाहीना विजि- गीषुकथा वितण्डेति । न च स्वस्य स्थापनीयाभावात् कथमियं कथा प्रवर्त्ततामिति वाच्यम् परपक्षखण्डनेन जयस्यैवोद्देश्यत्वात् । परे तु परपक्षखण्डनेनैव स्वपक्ष- स्वार्थादेव सिद्धिस्तत्साधनाभावेऽपि न प्रवृत्त्यनुसपत्ति- रिति वदन्ति” ।
शब्दकल्पद्रुमः
वितण्डा || स्त्री (वितण्ड्यते विहन्यते परपक्षो- ऽनयेति । वि + तण्ड + गुरोश्चेत्यः । टाप् ।)
स्वपक्षास्थापना परपक्षव्युदासः । इत्यमर- भरतौ ॥ (यथा, महाभारते । २ । ३६ । ३ । “एवमेतन्न चाप्येवमेवं चैतन्न चान्यथा । प्रत्यूचुर्बहवस्तत्र वितण्डां वै परस्परम् ॥”)
कच्वीशाकः । शिलाह्वयः । करवीरी । इति मेदिनी । डे, ३६ ॥ दर्व्वी । इति हारावली ॥