वितथ्य
वितरण
वितद्रु
वाचस्पत्यम्
वितद्रु || स्त्री वि + तम—रु दान्तदेशः । पञ्जावदेशस्थेनदीभेदे उणादिको०
शब्दकल्पद्रुमः
वितद्रुः || स्त्री (वितनोतीति । वि + तन + “जत्त्वा- दयश्च ।” उणा० ४ । १०२ । इति रुप्रत्ययेन साधुः ।)
नदीविशेषः । सा च पञ्जावाख्यदेशे वर्त्तते । इत्युणादिकोषः ॥