संस्कृत-शब्दकोशः

वितंस वितान

वितस्ति

वाचस्पत्यम्

वितस्ति ||‍ पुंस्त्री० वि + तस—क्तिच् । द्वादशाङ्गकपरिमाणे वि- स्तृत स कनिष्ठामध्यङ्गुष्ठान्तपरिमाणे अमरः ।


शब्दकल्पद्रुमः

वितस्तिः || पुं, स्त्री, (वि + तसु उपक्षेपे + “वौ तसेः ।” उणा० ४ । १८१ । इति तिः ।)
विस्तृतसकनिष्ठाङ्गुष्ठः । विगत् इति भाषा ॥ तत्पर्य्यायः । द्वादशाङ्गुलः २ । इत्यमरः ॥ (यथा, मार्कण्डेये । ४९ । ३९ । “द्वे वितस्ती तथा हस्तो ब्राह्मतीर्थादिवेष्ट- नम् ॥”)



Correction: