संस्कृत-शब्दकोशः

वितस्ति वितानक

वितान

वाचस्पत्यम्

वितान ||‍ न० वि + तन—कर्मभावादौ घञ् । १ वृत्तिभेदे मेदि० २ अवसरे विश्वः । ३ यज्ञे ४ विस्तारे अमरः ५ चन्द्रातपे पुंन० ६ तुच्छे ७ मन्दे च त्रि० अमरः । ८ शून्ये त्रि० धरणिः । स्वार्थे क । चन्दातपे । संज्ञायां कन् । माडवृक्षे राजनि० । ९ आहनीयाद्यग्नीनां विस्तारे । वितानेन निर्वृत्तः ठक् । वैतानिक वितावसाध्ये अग्न्याधेयप्रभृतौ त्रि० “अग्न्याधेय- प्रभृतीन्याह वैतानिकानि” आश्व० श्रौ० २ सू० । “विता- नेषु भवानि वैतानिकानि वितानसाध्यानीत्यर्थः । विता- नशब्दोऽत्र सूत्रे भाववचनोऽग्नीनां विस्तारवचनः” नारा० । वितायन्तेऽग्नयोऽस्मिन् वि + वन० आधारे घञ् । १० अग्निहोत्रादिकर्मणि । “अथैतस्य समाम्रायस्य विताने योगापत्तिं व्याख्यास्यामः” आ० गृ० १ सू० । “वितताः अग्नयो यस्मिन्निति श्रौतकर्मजातमग्निहोत्रादि वितानश- ब्देनोच्यते” नारा० । तत्र साधुठक् । वैतानिक अग्निहोत्रादि कर्मसाधने अग्नौ पु० । “वैतानिकेऽग्नौ कुर्वीत” मनुः ।


शब्दकल्पद्रुमः

वितानं || क्ली (वितन्यते यत् । वि + तन + घञ् ।)
वृत्तिविशेषः । इति मेदिनी । ने, १३१ ॥ अव- सरः । इति विश्वः ॥


शब्दकल्पद्रुमः

वितानः || त्रि (वि + तन + घञ् ।)
तुच्छः । (यथा, रघुः । ९ । ५० । “गगनमश्वखुरोद्धतरेणुभि- र्नृ सविता च वितानमिवाकरोत् ॥”)
मन्दः । इत्यमरः ॥ शून्यः । इति धरणिः ॥ (यथा, माघे । ३ । ५० । “बृहत्तुलैरप्यतुलैर्वितान- मालापिनद्धैरपि चावितानैः ॥”)


शब्दकल्पद्रुमः

वितानः || पुं, क्ली, (वि + तन् + घञ् ।)
क्रतुः । (यथा, माघे । १४ । १० । “सोमपायिनि भविष्यते मया वाञ्छितोत्तमवितानयाजिना ॥”)
विस्तारः । (यथा, भागवते । ३ । ७ । ३१ । “यज्ञस्य च वितानानि योगस्य च पर्थ प्रभो । नैष्कर्म्मस्य च साङ्ख्यस्य तन्त्रं वा भगवत्- स्मृतम् ॥”)
उल्लाचः । इत्यमरः ॥ चाँदोया इति भाषा । अस्य पर्य्यायश्चन्द्रातपशब्दे द्रष्टव्यः ॥ (यथा, रघुः । १७ । २८ । “वितानसहितं तत्र भेजे पैतृकमासनम् । चूडामणिभिरुद्घृष्टपादपीठं महीक्षिताम् ॥” समूहः । यथा, माघे । ११ । ४३ । “नवकनकपिशङ्गं वासराणां विधातुः ककुभि कुलिशपाणेर्भाति भासां वितानम् ॥” व्रणबन्धनविशेषः । यथा, सुश्रुते । १ । १८ । “तत्र कोशदामस्वस्तिकानुवेल्लितप्रतोलीमण्डल- स्थगिकायमकखट्वाचीनविवन्धवितानगोफणाः पञ्चाङ्गी चेति चतुर्द्दशबन्धविशेषाः ॥”)



Correction: